वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡द꣢र्द꣣रु꣢त्स꣣म꣡सृ꣢जो꣣ वि꣢꣫ खानि꣣ त्व꣡म꣢र्ण꣣वा꣡न्ब꣢द्बधा꣣ना꣡ꣳ अ꣢रम्णाः । म꣣हा꣡न्त꣢मिन्द्र꣣ प꣡र्व꣢तं꣣ वि꣢꣫ यद्वः सृ꣣ज꣢꣫द्धा꣣रा अ꣢व꣣ य꣡द्दा꣢न꣣वा꣢न्हन् ॥३१५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाꣳ अरम्णाः । महान्तमिन्द्र पर्वतं वि यद्वः सृजद्धारा अव यद्दानवान्हन् ॥३१५॥

मन्त्र उच्चारण
पद पाठ

अ꣡द꣢꣯र्दः । उ꣡त्स꣢꣯म् । उत् । स꣣म् । अ꣡सृ꣢꣯जः । वि । खा꣡नि꣢꣯ । त्वम् । अ꣣र्णवा꣢न् । ब꣣द्बधा꣣नान् । अ꣢रम्णाः । महा꣡न्त꣢म् । इ꣣न्द्र प꣡र्व꣢꣯तम् । वि । यत् । व꣡रिति꣢ । सृ꣣ज꣢त् । धा꣡राः꣢꣯ । अ꣡व꣢꣯ । यत् । दा꣣नवा꣢न् । ह꣣न् ॥३१५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 315 | (कौथोम) 4 » 1 » 3 » 3 | (रानायाणीय) 3 » 9 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर के वर्षा आदि तथा मुक्तिप्रदानरूपी कार्य का वर्णन है।

पदार्थान्वयभाषाः -

प्रथम—हे (इन्द्र) परमेश्वर ! (त्वम्) सकलसृष्टि के व्यवस्थापक आप, अपने द्वारा रचित सूर्य को साधन बनाकर (उत्सम्) जल के आधार बादल का (अदर्दः) विदारण करते हो, (खानि) उसके बन्द छिद्रों को (वि असृजः) खोल देते हो। (बद्बधानान्) न बरसनेवाले बादल में दृढ़ता से बँधे हुए (अर्णवान्) जल के पारावारों को (अरम्णाः) छोड़ देते हो। इस प्रकार वृष्टिकर्म के वर्णन के बाद पहाड़ों से जलधाराओं के प्रवाह का वर्णन है। (यत्) जब (महान्तम्) विशाल (पर्वतम्) बर्फ के पर्वत को (विवः) पिघला देते हो और (यत्) जब (दानवान्) जल-प्रवाह में बाधक शिलाखण्ड आदियों को (हन्) दूर करते हो, तब (धाराः) नदियों की धाराओं को (अव सृजत्) बहाते हो ॥ इससे राजा का विषय भी सूचित होता है। जैसे परमेश्वर वा सूर्य वृष्टि-प्रतिबन्धक मेघ को विदीर्ण कर उसमें रुकी हुई जलधाराओं को प्रवाहित करते हैं, वैसे ही राजा भी राष्ट्र की उन्नति में प्रतिबन्धक शत्रुओं को विदीर्ण कर उनसे अवरुद्ध ऐश्वर्य की धाराओं को प्रवाहित करे ॥ द्वितीय—हे (इन्द्र) परमेश्वर ! (त्वम्) आप (उत्सम्) ज्ञान से रुके हुए स्रोत को (अदर्दः) खोल देते हो, (खानि) अन्तरात्मा से पराङ्मुख हुई बहिर्मुख इन्द्रियों को (वि-असृजः) बाह्य विषयों से पृथक् कर देते हो, (बद्बधानान्) आनन्दमय कोशों में रुके हुए (अर्णवान्) आनन्द के पारावारों को (अरम्णाः) मनोमय आदि कोशों में फव्वारे की तरह छोड़ देते हो। (यत्) जब, आप (महान्तम्) विशाल (पर्वतम्) योगमार्ग में विघ्नभूत व्याधि, स्त्यान, संशय, प्रमाद, आलस्य आदियों के पहाड़ को (विवः) विदीर्ण कर देते हो, और (यत्) जब (दानवान्) अविद्या, अस्मिता, राग, द्वेष, अभिनिवेश रूप दानवों को (हन्) विनष्ट कर देते हो, तब (धाराः) कैवल्य प्राप्त करानेवाली धर्ममेघ समाधि की धाराओं को (अव सृजत्) प्रवाहित करते हो ॥३॥ इस मन्त्र में श्लेषालङ्कार है ॥३॥

भावार्थभाषाः -

परमेश्वर जैसे वर्षा करना, नदियों को बहाना आदि प्राकृतिक कार्य सम्पन्न करता है, वैसे ही योगाभ्यासी मुमुक्षु मनुष्य के योगमार्ग में आये हुए विघ्नों का निवारण कर उसकी आत्मा में आनन्द की वृष्टि करके उसे मोक्ष भी प्रदान करता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरस्य वृष्ट्यादिकं कैवल्यप्रदानरूपं च कर्म वर्णयति।

पदार्थान्वयभाषाः -

प्रथमः—हे (इन्द्र) परमेश्वर ! (त्वम्) सकलसृष्टिव्यवस्थापकः त्वम्, स्वरचितं सूर्यमुपकरणीकृत्य (उत्सम्) जलाधारं मेघम् (अदर्दः) भृशं विदारयसि। दॄ विदारणे धातोर्यङ्लुगन्ताल्लङि सिपि छान्दसं रूपम्। (खानि) पिहितानि छिद्राणि (वि असृजः) उद्घाटयसि। (बद्बधानान्) अवर्षके मेघे दृढं बद्धान्। बध बन्धने धातोः क्र्यादेः चानश्, ‘बहुलं छन्दसि’ अ० २।४।७६ इति शपः श्लुः, हलादिशेषाभावः। (अर्णवान्) पयसः पारावारान् (अरम्णाः) विसृजसि। रम्णातिः संयमनकर्मा विसर्जनकर्मा वा। निरु० १०।९। एवं वृष्टिकर्म वर्णयित्वा पर्वतेभ्यो जलधाराप्रवाहं वर्णयति। (यत्) यदा (महान्तम्) विशालम् (पर्वतम्) पर्वताकारं हिमीभूतं जलसंघातम् (विवः२) विवृणोषि विशेषेण द्रावयसि। वः इति ‘वृञ्’ वरणे धातोर्लुङि सिपि, ‘मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः’ अ० २।४।८० इति च्लेर्लुकि अडागमाभावे रूपम्। यद्योगाद् ‘यद्वृत्तान्नित्यम्’ इति निघातप्रतिषेधाद् धातुस्वरेणोदात्तत्वम्। (यत्) यदा च (दानवान्) जलप्रवाहप्रतिबन्धकान् शिलाखण्डादीन् (हन्) हंसि चूर्णयसि। हन हिंसागत्योः, लङि अडागमाभावश्छान्दसः। तदा (धाराः) नदीः (अवसृजत्) अवासृजः। सृज विसर्गे धातोर्लङि छान्दसः पुरुषव्यत्ययः अडागमाभावश्च ॥ एतेन राजविषयोऽपि सूच्यते। यथा परमेश्वरः सूर्यो वा वृष्टिप्रतिबन्धकं मेघं विदार्य तत्रावरुद्धा जलधाराः प्रवाहयति, तथैव राजापि राष्ट्रोन्नतिप्रतिबन्धकान् शत्रून् विदार्य तैरवरुद्धा ऐश्वर्यधारा राष्ट्रे प्रवाहयेत् ॥३ एतं मन्त्रं यास्काचार्य एवं व्याचष्टे—अदृणा उत्सम्। उत्स उत्सरणाद् वा उत्सदनाद् वा उत्स्यन्दनाद् वा, उनत्तेर्वा। व्यसृजोऽस्य खानि। त्वमर्णवान् अर्णस्वत एतान् माध्यमिकान् संस्त्यानान् बाबध्यमानान् अरम्णाः, रम्णातिः, संयमनकर्मा विसर्जनकर्मा वा। महान्तम् इन्द्र पर्वतं मेघं यद् व्यवृणोः, व्यसृजोऽस्य धाराः। अवहन्नेनं दानवं दानकर्माणम्। निरु० १०।९ ॥ अथ द्वितीयः—हे (इन्द्र) परमेश्वर ! (त्वम् उत्सम्) अवरुद्धं ज्ञानस्रोतः (अदर्दः) विदार्य उद्घाटयसि, (खानि) अन्तरात्मनः पराङ्मुखानि बहिर्मुखानि इन्द्रियाणि। ‘पराञ्चि खानि व्यतृणत् स्वयम्भूः’। कठ० ४।१ इति प्रामाण्यात् खानि इन्द्रियाण्युच्यन्ते। (वि असृजः) बाह्यविषयेभ्यः पृथक् करोषि। (बद्बधानान्) आनन्दमयकोशेषु बद्धान् (अर्णवान्) आनन्दपारावारान् (अरम्णाः) मनोमयादिकोशेषु विसृजसि। (यत्) यदा (महान्तम्) विशालम् (पर्वतम्) योगमार्गे विघ्नभूतानां व्याधिस्त्यानसंशयप्रमादालस्यादीनां शैलम् (विवः) विदारयसि, (यत्) यदा च (दानवान्) अविद्यास्मितारागद्वेषाभिनिवेशरूपान् दैत्यान् (हन्) हंसि, तदा (धाराः) कैवल्यप्रापिकाः धर्ममेघसमाधिधाराः४ (अव सृजत्) प्रवाहयसि ॥३॥ अत्र श्लेषालङ्कारः ॥३॥

भावार्थभाषाः -

परमेश्वरो यथा वृष्टिप्रदाननदीप्रवाहादिरूपं प्राकृतिकं कर्म सम्पादयति तथैव योगमभ्यस्यतो मुमुक्षुजनस्य मार्गे समागतान् विघ्नान् निवार्य तदात्मन्यानन्दवृष्टिं कृत्वा तस्मै मोक्षमपि प्रयच्छति ॥३॥

टिप्पणी: १. ऋ० ५।३२।१ ‘सृजो वि धारा अव दानवान् हन्’ इति पाठः। २. विवः विवृतवानसि—इति वि०, भ०, सा०। केचित्तु ‘वः’ इति पदं युष्मदादेशरूपेण व्याचख्युः, तदसमञ्जसं स्वरविरोधात् पदपाठविरोधाच्च। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजप्रजापक्षे व्याख्यातवान्। ४. द्रष्टव्यम्—योग० १।३०, ३१; २।३; ४।२९।